अनुपूर्वात् जनेः कर्मणि उपपदे डः प्रत्ययो भवति। पुमांसमनुजातः पुमनुजः। स्त्र्यनुजः।
"अनुपूर्वाज्जनेः" इत्यादि।
अथानुशब्दस्योपपदत्वं कस्मान्न भवति? यतो न भवति स हेतुः "उदि कूलेरुजिवहोः"
३।२।३१ इत्यत्र व्याख्यात इति पुनर्नाख्यायते। "पुममुजः" इति। लुप्तेऽपि सुपि प्रत्ययलक्षणेन पदत्वम्, तेन संयोगान्तलोपो
८।२।२३ भवति॥